Get the App

Search

Sarva Ista Prada Gajanana Stotram

  • Share this:
Sarva Ista Prada Gajanana Stotram

||  सर्वेष्टप्रदं गजाननस्तोत्रम्  ||

श्रीगणेशाय नमः ।
कपिल उवाच ।
नमस्ते विघ्नराजाय भक्तानां विघ्नहारिणे ।
अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥ १॥

आकाशाय च भूतानां मनसे चामरेषु ते ।
बुद्ध्यैरिन्द्रियवर्गेषु त्रिविधाय नमो नमः ॥ २॥

देहानां बिन्दुरूपाय मोहरूपाय देहिनाम् ।
तयोरभेदभावेषु बोधाय ते नमो नमः ॥ ३॥

साङ्ख्याय वै विदेहानां संयोगानां निजात्मने ।
चतुर्णां पञ्च मायैव सर्वत्र ते नमो नमः ॥ ४॥

नामरूपात्मकानां वै शक्तिरूपाय ते नमः ।
आत्मनां रवये तुभ्यं हेरम्बाय नमो नमः ॥ ५॥

आनन्दानां महाविष्णुरूपाय नेति धारिणाम् ।
शङ्कराय च सर्वेषां संयोगे गणपाय ते ॥ ६॥

कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम्।
समेषु समरूपाय लम्बोदर नमोऽस्तु ते ॥ ७॥

स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः ।
तेषामभेदभावेषु स्वानन्दाय च ते नमः ॥ ८॥

निर्मायिकस्वरूपाणामयोगाय नमो नमः ।
योगानां योगरूपाय गणेशाय नमो नमः ॥ ९॥

शान्तियोगप्रदात्रे ते शान्तियोगमयाय च ।
किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥ १०॥

ततस्तं गणनाथो वै जगाद भक्तमुत्तमम् ।
हर्षेण महता युक्तो हर्षयन्मुनिसत्तम ॥ ११॥

श्रीगणेश उवाच ।
त्वया कृतं मदीयं यत्स्तोत्रं योगप्रदं भवेत् ।
धर्मार्थकाममोक्षाणां दायकं प्रभविष्यति ॥ १२॥

वरं वरय मत्तस्त्वं दास्यामि भक्तियन्त्रितः ।
त्वत्समो न भवेत्तात तत्त्वज्ञानप्रकाशकः ॥ १३॥

तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह ।
त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥ १४॥

त्वदीयभूषणं दैत्यो हृत्वा सद्यो जगाम ह ।
ततश्चिन्तामणिं नाथ तं जित्वा मणिमानय ॥ १५॥

यदाहं त्वां स्मरिष्यामि तदात्मानं प्रदर्शय ।
एतदेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥ १६॥

गृत्समद उवाच ।
तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः ।
उवाच तं महाभक्तं प्रेमयुक्तं विशेषतः ॥ १७॥

त्वया यत्प्रार्थितं विष्णो तत्सर्वं प्रभविष्यति ।
तव पुत्रो भविष्यामि गणासुरवधाय च ॥ १८॥

एवमुक्त्वान्तर्दधेऽसौ ढुण्ढिराजः प्रतापवान् ।
मुनिस्तं हृदि सञ्चिन्त्य स्वाश्रमस्थो बभूव ह ॥ १९॥

इति श्रीमुद्गलपुराणे कपिलमुनिप्रोक्तं गजाननस्तोत्रं समाप्तम् ।
 


Vedabrahma

Vedabrahma

Hi, I’m Reyna Borer, Your Blogging Journey Guide 🖋️. Writing, one blog post at a time, to inspire, inform, and ignite your curiosity. Join me as we explore the world through words and embark on a limitless adventure of knowledge and creativity. Let’s bring your thoughts to life on these digital pages. 🌟 #BloggingAdventures

We use cookies (including third-party cookies) to analyze traffic, enhance your experience, and deliver personalized content. By continuing to browse, you consent to our use of cookies as per our Privacy Policy Cookie Policy